Vishnave namah:
- Laxmi Narasimha Sadhana kendra
- Feb 5
- 5 min read
May the supreme consciousness descend in everybody's mind and free them from animalistic bondages. May the Supreme Vishnu awaken in each and every soul. May all the jeevas attain their true self. Let all get evolved to higher existence. May the transcendental Indra destroy the enemies of enlightenment with his unbreakable Vajra. May the great Saraswati once again flow down and quench the thirst of knowledge. May the great Mitra Varuna lead the way of mankind to divine existence. Let the incredible aswhinas heal everyone's deteriorating body and mind. May the venerable pitras bring the spiritual growth and prosperity upon their descendants. Let the fierce rudras, marutas, yama and niruti take away the decay, diseases and death. Let us all once again see the golden light of Hiranyagarbha. May the great Usha and Aditi bring the new dawn and ratri take back the darkness of prevailing night. Let the atma fuse in the great paramatma once again.
🙏 Namo Narasimha 🙏
श्रीविष्णुसूक्तम्
(१.२२) प्रथममं मण्डलं द्वाविंशं सूक्तस्य भागः
ऋषिः - मेधतिथिः काण्वः । देवता - विष्णुः ।
चन्दः - १६, २०, २१ गायत्री; १७, १८ पिपीलिकामश्यानिचृद्गायत्री;
१९ निचृद् गायत्री, स्वरः - षड्जः ।
अतो᳚ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे ।
पृ॒थि॒व्याः स॒प्त धाम॑भिः ॥ १.०२२.१६
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् ।
समू᳚ळ्हमस्य पांसु॒रे ॥ १.०२२.१७
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा᳚भ्यः ।
अतो॒ धर्मा᳚णि धा॒रय॑न् ॥ १.०२२.१८
विष्णोः॒ कर्मा᳚णि पश्यत॒ यतो᳚ व्र॒तानि॑ पस्प॒शे ।
इन्द्र॑स्य॒ युज्यः॒ सखा᳚ ॥ १.०२२.१९
तद्विष्णोः᳚ पर॒मं प॒दं सदा᳚ पश्यन्ति सू॒रयः॑ ।
दि॒वी᳚व॒ चक्षु॒रात॑तम् ॥ १.०२२.२०
तद्विप्रा᳚सो विप॒न्यवो᳚ जागृ॒वांसः॒ समि᳚न्धते ।
विष्णो॒र्यत्प॑र॒मं प॒दम् ॥ १.०२२.२१
(१.१५४) प्रथममं मण्डलं चतुष्पञ्चाशदुत्तरशततमं सूक्तम्
ऋषिः - दिर्घतमाः औचथ्य । देवता - विष्णुः ।
चन्दः - १, २ विराट्त्रिष्टुप्, ३, ४, ६ निचृत्त्रिष्टुप्; ५ त्रिष्टुप्,
स्वरः - धैवतः ।
विष्णो॒र्नु कं᳚ वी॒र्या᳚णि॒ प्र वो᳚चं॒ यः पार्थि॑वानि विम॒मे रजां᳚सि ।
यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं᳚ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥ १.१५४.०१
प्र तद्विष्णुः॑ स्तवते वी॒र्ये᳚ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ॥ १.१५४.०२
प्र विष्ण॑वे शू॒षमे᳚तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे᳚ ।
य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको᳚ विम॒मे त्रि॒भिरित्प॒देभिः॑ ॥ १.१५४.०३
यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी᳚यमाणा स्व॒धया॒ मद᳚न्ति ।
य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको᳚ दा॒धार॒ भुव॑नानि॒ विश्वा॑ ॥ १.१५४.०४
तद॑स्य प्रि॒यम॒भि पाथो॑ अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति ।
उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णोः᳚ प॒दे प॑र॒मे मध्व॒ उत्सः॑ ॥ १.१५४.०५
ता वां॒ वास्तू᳚न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यासः॑ ।
अत्राह॒ तदु॑रुगा॒यस्य॒ वृष्णः॑ पर॒मं प॒दमव॑ भाति॒ भूरि॑ ॥ १.१५४.०६
(१.१५५) प्रथममं मण्डलं पञ्चपञ्चाशदुत्तरशततमं सूक्तम्
ऋषिः - दीर्घतमाः औचथ्य । देवता - विष्णुः (२ इन्द्रः, विष्णुः) ।
छन्दः - १, ३, ६ भुरिक्त्रिष्टुप्; २ निचृज्जगती; ४ स्वराट्त्रिष्टुप्;
५ निचृत्त्रिष्टुप् । स्वरः - १, ३-६ धैवतः; २ निषादः ।
प्र वः॒ पान्त॒मन्ध॑सो धियाय॒ते म॒हे शूरा᳚य॒ विष्ण॑वे चार्चत ।
या सानु॑नि॒ पर्व॑ताना॒मदा᳚भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना᳚ ॥ १.१५५.०१
त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी᳚वतो॒रिन्द्रा᳚विष्णू सुत॒पा वा᳚मुरुष्यति ।
या मर्त्या᳚य प्रतिधी॒यमा᳚न॒मित्कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ ॥ १.१५५.०२
ता ईं᳚ वर्धन्ति॒ मह्य॑स्य॒ पौंस्यं॒ नि मा॒तरा᳚ नयति॒ रेत॑से भु॒जे ।
दधा᳚ति पु॒त्रोऽव॑रं॒ परं᳚ पि॒तुर्नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥ १.१५५.०३
तत्त॒दिद॑स्य॒ पौंस्यं᳚ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुषः॑ ।
यः पार्थि॑वानि त्रि॒भिरिद्विगा᳚मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे᳚ ॥ १.१५५.०४
द्वे इद॑स्य॒ क्रम॑णे स्व॒र्दृशो᳚ऽभि॒ख्याय॒ मर्त्यो᳚ भुरण्यति ।
तृ॒तीय॑मस्य॒ नकि॒रा द॑धर्षति॒ वय॑श्च॒न प॒तय᳚न्तः पत॒त्रिणः॑ ॥ १.१५५.०५
च॒तुर्भिः॑ सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यती᳚ँरवीविपत् ।
बृ॒हच्छ॑रीरो वि॒मिमा᳚न॒ ऋक्व॑भि॒र्युवाकु॑मारः॒ प्रत्ये᳚त्याह॒वम् ॥ १.१५५.०६
(१.१५६) प्रथममं मण्डलं षट्पञ्चाशदुत्तरशततमं सूक्तम्
ऋषिः - दीर्घतमाः । देवता - विष्णुः । छन्दः - १ निचृत्त्रिष्टुप्;
२ विराट्त्रिष्टुप्; ३ निचृज्जगती; ४ जगती; ५ स्वराट्त्रिष्टुप् ।
स्वरः - १, २, ५ धैवतः; ३, ४ निषादः ।
भवा᳚ मि॒त्रो न शेव्यो᳚ घृ॒तासु॑ति॒र्विभू᳚तद्युम्न एव॒या उ॑ स॒प्रथाः᳚ ।
अधा᳚ ते विष्णो वि॒दुषा᳚ चि॒दर्ध्यः॒ स्तोमो᳚ य॒ज्ञश्च॒ राध्यो᳚ ह॒विष्म॑ता ॥ १.१५६.०१
यः पू॒र्व्याय॑ वे॒धसे॒ नवी᳚यसे सु॒मज्जा᳚नये॒ विष्ण॑वे॒ ददा᳚शति ।
यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त्सेदु॒ श्रवो᳚भि॒र्युज्यं᳚ चिद॒भ्य॑सत् ॥ १.१५६.०२
तमु॑ स्तोतारः पू॒र्व्यं यथा᳚ वि॒द ऋ॒तस्य॒ गर्भं᳚ ज॒नुषा᳚ पिपर्तन ।
आस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन म॒हस्ते᳚ विष्णो सुम॒तिं भ॑जामहे ॥ १.१५६.०३
तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं॑ सचन्त॒ मारु॑तस्य वे॒धसः॑ ।
दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं॑ व्र॒जं च॒ विष्णुः॒ सखि॑वाँ अपोर्णु॒ते ॥ १.१५६.०४
आ यो वि॒वाय॑ स॒चथा॑य॒ दैव्य॒ इन्द्रा॑य॒ विष्णुः॑ सु॒कृते॑ सु॒कृत्त॑रः ।
वे॒धा अ॑जिन्वत्त्रिषध॒स्थ आर्य॑मृ॒तस्य॑ भा॒गे यज॑मान॒माभ॑जत् ॥ १.१५६.०५
(६.६९) षष्ठं मण्डलं एकोनसप्ततितमं सूक्तम्
ऋषिः - भरद्वाजो बार्हस्पत्यः । देवता - इन्द्राविष्णू ।
छन्दः - १, ३, ६, ७निचृत्त्रिष्टुप्; २, ४, ८ त्रिष्टुप्; ५ ब्राह्म्युष्णिक् ।
स्वरः - १-४, ६-८ धैवतः; ५ ऋषभः ।
सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा᳚विष्णू॒ अप॑सस्पा॒रे अ॒स्य ।
जु॒षेथां᳚ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय᳚न्ता ॥ ६.०६९.०१
या विश्वा᳚सां जनि॒तारा᳚ मती॒नामिन्द्रा॒विष्णू᳚ क॒लशा᳚ सोम॒धाना᳚ ।
प्र वां॒ गिरः॑ श॒स्यमा᳚ना अवन्तु॒ प्र स्तोमा᳚सो गी॒यमा᳚नासो अ॒र्कैः ॥ ६.०६९.०२
इन्द्रा᳚विष्णू मदपती मदाना॒मा सोमं᳚ यातं॒ द्रवि॑णो॒ दधा᳚ना ।
सं वा᳚मञ्जन्त्व॒क्तुभि᳚र्मती॒नां सं स्तोमा॑सः श॒स्यमा᳚नास उ॒क्थैः ॥ ६.०६९.०३
आ वा॒मश्वा᳚सो अभिमाति॒षाह॒ इन्द्रा᳚विष्णू सध॒मादो᳚ वहन्तु ।
जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा᳚णि शृणुतं॒ गिरो᳚ मे ॥ ६.०६९.०४
इन्द्रा᳚विष्णू॒ तत्प॑न॒याय्यं᳚ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे ।
अकृ॑णुतम॒न्तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे᳚ नो॒ रजां᳚सि ॥ ६.०६९.०५
इन्द्रा᳚विष्णू ह॒विषा᳚ वावृधा॒नाग्रा᳚द्वाना॒ नम॑सा रातहव्या ।
घृता᳚सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थः॑ क॒लशः॑ सोम॒धानः॑ ॥ ६.०६९.०६
इन्द्रा᳚विष्णू॒ पिब॑तं॒ मध्वो᳚ अ॒स्य सोम॑स्य दस्रा ज॒ठरं᳚ पृणेथाम् ।
आ वा॒मन्धां᳚सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा᳚णि शृणुतं॒ हवं᳚ मे ॥ ६.०६९.०७
उ॒भा जि॑ग्यथु॒र्न परा᳚ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः᳚ ।
इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै᳚रयेथाम् ॥ ६.०६९.०८
(७.९९) सप्तममं मण्डलं नवनवतितमं सूक्तम्
ऋषिः - वसिष्ठः । देवता - १-३, ७ विष्णुः; ४-६ इन्द्राविष्णू ।
छन्दः - १, ६ विराट्त्रिष्टुप्; २, ३ त्रिष्टुप्; ४, ५, ७ निचृत्त्रिष्टुप् ।
स्वरः - धैवतः ।
प॒रो मात्र॑या त॒न्वा᳚ वृधान॒ न ते᳚ महि॒त्वमन्व॑श्नुवन्ति ।
उ॒भे ते᳚ विद्म॒ रज॑सी पृथि॒व्या विष्णो᳚ देव॒ त्वं प॑र॒मस्य॑ वित्से ॥ ७.०९९.०१
न ते᳚ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मन्त॑माप ।
उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हन्तं᳚ दा॒धर्थ॒ प्राचीं᳚ क॒कुभं᳚ पृथि॒व्याः ॥ ७.०९९.०२
इरा᳚वती धेनु॒मती॒ हि भू॒तं सू᳚यव॒सिनी॒ मनु॑षे दश॒स्या ।
व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो᳚ म॒यूखैः᳚ ॥ ७.०९९.०३
उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नय᳚न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् ।
दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु᳚र्नरा पृत॒नाज्ये᳚षु ॥ ७.०९९.०४
इन्द्रा᳚विष्णू दृंहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो᳚ नव॒तिं च॑ श्नथिष्टम् ।
श॒तं व॒र्चिनः॑ स॒हस्रं᳚ च सा॒कं ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ॥ ७.०९९.०५
इ॒यं म॑नी॒षा बृ॑ह॒ती बृ॒हन्तो॑रुक्र॒मा त॒वसा᳚ व॒र्धय᳚न्ती ।
र॒रे वां॒ स्तोमं᳚ वि॒दथे᳚षु विष्णो॒ पिन्व॑त॒मिषो᳚ वृ॒जने᳚ष्विन्द्र ॥ ७.०९९.०६
वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे᳚ जुषस्व शिपिविष्ट ह॒व्यम् ।
वर्ध᳚न्तु त्वा सुष्टु॒तयो॒ गिरो᳚ मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥ ७.०९९.०७
(७.१००) सप्तममं मण्डलं शततमं सूक्तम्
ऋषिः - वसिष्ठः मैत्रावरुणि । देवता - विष्णुः ।
छन्दः - १, २, ५-७ निचृत्त्रिष्टुप्; ३ विराट्त्रिष्टुप्; ४ आर्षीत्रिष्टुप् ।
स्वरः - धैवतः ।
नू मर्तो᳚ दयते सनि॒ष्यन्यो विष्ण॑व उरुगा॒याय॒ दाश॑त् ।
प्र यः स॒त्राचा॒ मन॑सा॒ यजा᳚त ए॒ताव᳚न्तं॒ नर्य॑मा॒विवा᳚सात् ॥ ७.१००.०१
त्वं वि॑ष्णो सुम॒तिं वि॒श्वज᳚न्या॒मप्र॑युतामेवयावो म॒तिं दाः᳚ ।
पर्चो॒ यथा᳚ नः सुवि॒तस्य॒ भूरे॒रश्वा᳚वतः पुरुश्च॒न्द्रस्य॑ रा॒यः ॥ ७.१००.०२
त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा ।
प्र विष्णु॑रस्तु त॒वस॒स्तवी᳚यान्त्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥ ७.१००.०३
वि च॑क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा᳚य॒ विष्णु॒र्मनु॑षे दश॒स्यन् ।
ध्रु॒वासो᳚ अस्य की॒रयो॒ जना᳚स उरुक्षि॒तिं सु॒जनि॑मा चकार ॥ ७.१००.०४
प्र तत्ते᳚ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं᳚सामि व॒युना᳚नि वि॒द्वान् ।
तं त्वा᳚ गृणामि त॒वस॒मत᳚व्या॒न्क्षय᳚न्तम॒स्य रज॑सः परा॒के ॥ ७.१००.०५
किमित्ते᳚ विष्णो परि॒चक्ष्यं᳚ भू॒त्प्र यद्व॑व॒क्षे शि॑पिवि॒ष्टो अ॑स्मि ।
मा वर्पो᳚ अ॒स्मदप॑ गूह ए॒तद्यद॒न्यरू᳚पः समि॒थे ब॒भूथ॑ ॥ ७.१००.०६
वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे᳚ जुषस्व शिपिविष्ट ह॒व्यम् ।
वर्ध᳚न्तु त्वा सुष्टु॒तयो॒ गिरो᳚ मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥ ७.१००.०७
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥





Comments